Entering edit mode
1 Answer
प्रत्येकम् - एकम् एकं प्रति इति वीप्सार्थे अव्ययीभावः समासः । अव्ययीभावसमासस्य अव्ययत्वात् सर्वासु विभक्तिषु सर्वेषु च वचनेषु समानं रूपं भवति ।
परन्तु अव्ययीभावसमासः यदि अदन्तः
तर्हि तत्र व्यवस्था भिद्यते । 'अ' अन्ते यस्य सः अदन्तः इति बहुव्रीहिसमासः ।
'प्रत्येक' इति प्रातिपदिकम् अदन्तम् ।
तृतीयासप्तम्योर्बहुलम् । नाव्ययीभावादतोऽम्त्वपञ्चम्याः । इति सूत्रद्वयस्य तत्र प्रसक्तिः ।
अन्यविभक्तिषु प्रत्येकम् इत्येव ।
स्पष्टप्रतिपत्त्यर्थं षष्ठीद्योतनम् अनिवार्यं चेत् एकैकस्य
इति प्रयोगमर्हति ।
Use of this site constitutes acceptance of our User Agreement and Privacy Policy.