अपि विश्वस्मिन् विश्वे इति प्रयोगः साधुत्वं भजते?
1
0
Entering edit mode
QUESTION
10 months ago
bandhu 430

विश्वे इति प्रयोगः साधुः वा?

साधुता व्याकरणम् • 107 views
ADD COMMENT

1 Answer

2
Entering edit mode
ANSWER
10 months ago
bandhu 430

मिश्रोपाख्यनित्यानन्दवर्यस्य उत्तरं सङ्कलितम् ।

सर्वनामसञ्ज्ञायाम्

विश्व ङि -> ङसिङ्योः स्मात्स्मिनौ (पा॰सू॰~७.१.१५) -> विश्व स्मिन् -> विश्वस्मिन्।

ननु च भोः - पूर्वपरावरदक्षिणो० (१-१-३४) इति सूत्रेण पूर्वादिशब्दानां रूपद्वयं भवति यथा "पूर्वस्मिन्", "पूर्वे" इति

मैवम्। पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् (पा॰सू॰~१.१.३४) इति सूत्रं सप्तम्यां न प्रवर्तते। यतो ह्यस्मिन् सूत्रे विभाषा जसि (पा॰सू॰~१.१.३२) इति सम्पूर्णं सूत्रमनुवृत्तम्। तेन जसि विभक्तावेव विकल्पो विधीयते।

सप्तम्यां पूर्वादीनां पूर्वादिभ्यो नवभ्यो वा (पा॰सू॰~७.१.१६) इत्यनेन वैकल्पिको स्मिन् आदेशो भवति। तस्मादेव सप्तम्यां रूपद्वयं बोध्यम्।

पूर्व ङि -> ङसिङ्योः स्मात्स्मिनौ (पा॰सू॰~७.१.१५) -> पूर्वादिभ्यो नवभ्यो वा (पा॰सू॰~७.१.१६) -> पूर्व स्मिन् -> पूर्वस्मिन्। पक्षे पूर्व ङि -> पूर्व इ -> आद्गुणः (पा॰सू॰~६.१.८७) -> पूर्वे।

तथैव "विश्व" इति शब्दस्यापि रूपद्वयं भवति वा? किं "संज्ञोपसर्जनीभूतास्तु सर्वादयः" इति वार्तिकेन अत्र विकल्पो विधीयते? यतो हि क्वचित्प्रयोगेषु "विश्वेऽस्मिन्" इति प्रयोगो दृष्टः। किमयं प्रयोगःसाधुः उत प्रामादिकः।

सर्वनामसञ्ज्ञायां रूपद्वयं न भवति। तत्र विश्वस्मिन् इत्येव। विश्व इत्यस्य पूर्वादिषु नवशब्देषु पाठाभावात्।

परन्तु यदा विश्व इत्यस्य सर्वनामसञ्ज्ञा न तदा विश्वे इति साधु। यतो ह्यसत्यां सर्वनामसञ्ज्ञायां ङसिङ्योः स्मात्स्मिनौ (पा॰सू॰~७.१.१५) इति सूत्रमेव न प्रवर्तते। सर्वादीनां सर्वनामसंज्ञाऽर्थाधीनेत्यत्र किं प्रमाणम्। यथासंख्यमनुदेशः समानाम् (पा॰सू॰~१.३.१०) इति सूत्रकारप्रवृत्तिरत्र प्रमाणम्। सम शब्दस्य द्वावर्थौ – सर्व तुल्य चेति। यदा समशब्दः सर्ववाचकस्तदा सर्वनामसंज्ञा भवति समेषाम् इति रूपं च भवति। यदा समशब्दस्तुल्यवाचकस्तदा सर्वनामसंज्ञा न भवति समानाम् इति रूपं च भवति। एवमेव यदा विश्व शब्दो सकलवाचकस्तदा सर्वनामसंज्ञा भवति। तस्मात् विश्वस्मिन् इति रूपं भवति –

विश्व ङि -> ङसिङ्योः स्मात्स्मिनौ (पा॰सू॰~७.१.१५) -> विश्व स्मिन् -> विश्वस्मिन्।

यदा तु स संसारवाचकस्तदा सर्वनामसंज्ञा न भवति। तस्मात् विश्वे इति रूपं भवति।

विश्व ङि -> विश्व इ -> आद्गुणः (पा॰सू॰~६.१.८७) -> विश्वे।

प्रमाणं चात्र वाचस्पत्यम्

विश्व – न॰ विश्-व (१) जगति संसारे (२) तदभिमानिनि जीवे पु॰ व्यस्तस्थूलदेहे प्रवेशात्तस्य तथात्वं वेदान्तसारे उक्तम् (३) श्राद्धदेवविशेषे पु॰ब॰व॰ (४) सकले त्रि॰ तदर्थेऽस्य सर्वनामता। ...

एतेन “विश्वस्मिन् विश्वे” (=in the whole word, सम्पूर्ण संसार में) इति शिष्टप्रयोगो सङ्गच्छते। यथा अध्यात्मरामयणेऽपाणिनीयप्रयोगाणां विमर्शः इति ग्रन्थे प्रस्तावनायां मम गुरुभिः कृतः –

“अस्य (वैष्णवसम्प्रदायस्य) प्रायशो विश्वस्मिन् विश्वे प्रचारः प्रसारश्च।”

यदा विश्वशब्दो व्यापकवाचकस्तदाऽपि सर्वनामसंज्ञा न भवति। तेन ‘विविक्ते विमले विश्वे’ (वा रा ५-१-१७८) इति सुन्दरकाण्डीयसुन्दरप्रयोगो सङ्गच्छते। अत्र श्लोकसार्धषट्कमेकान्वयि –

चरिते कैशिकाचार्यैरैरावतनिषेविते॥ ५-१-१७४ ॥

सिंहकुञ्जरशार्दूलपतगोरगवाहनैः। विमानैः संपतद्भिश्च विमलैः समलंकृते॥ ५-१-१७५ ॥

वज्राशनिसमाघातैः पावकैरुपशोभिते। कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलंकृते॥ ५-१-१७६ ॥

वहता हव्यमत्यर्थं सेविते चित्रभानुना। ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते॥ ५-१-१७७ ॥

महर्षिगणगन्धर्वनागयक्षसमाकुले। विविक्ते विमले विश्वे विश्वावसुनिषेविते॥ ५-१-१७८ ॥

देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे। विताने जीवलोकस्य वितते ब्रह्मनिर्मिते॥ ५-१-१७९ ॥

बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः। जगाम वायुमार्गे तु गरुत्मानिव मारुतिः॥ ५-१-१८० ॥

अत्र “विश्वे” इति “वायुमार्गे” इत्यस्य विशेषणम्। तस्य “सकल” इत्यर्थो न। अर्थानुपपत्तेः। यतो हि हनुमान् सकले वायुमार्गे न जगामापितु लङ्कागते वायुमार्गांश एव जगाम। अत एवात्र “विश्वे” इत्यस्य “व्यापके” इत्यर्थः।

केनापि टीकाकारेण “स्मिनभाव आर्षः” इति नोक्तम्।

गोविन्दराजाः – विश्वे विश्वगते व्यापक इत्यर्थः।

तिलककारा नागेशाः – विश्वे विश्वाश्रये।

माहेश्वरतीर्थाः – विश्वे विश्वव्यापके।

शिवसहायाः – विश्वे जगदाश्रयीभूते विशाले वा।

ADD COMMENT

Login before adding your answer.

Traffic: 22 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.