Entering edit mode
QUESTION
2.0 years ago
bandhu
440
तॄ धातोः उत्तरशब्दः
उत्तरं दत्तम् इत्यर्थे उत्तरितमिति श्रूयते।
क्तान्तरूपं तु तीर्णम् इति
इतच् प्रत्ययेन तरितमित्यपि स्यात्। अर्थः तत्र समानो वा?

नेति मन्ये।
प्रश्नम् उत्तीर्णवान् - (He) answered the question. उत्तरम् (answer) + इतच् (that which is observed) - Hence, it will only become an adjective, like उत्तरितः प्रश्नः - the question whose answer has been attained (or some similar construction).
अद्यत्वे उत्तीर्णशब्दः passed इत्यर्थे प्रयुज्यते किल। अत एव प्रतिवचनार्थकस्य उत्तरितशब्दरूपस्य साधुता चिन्तनीया अविशेषणस्थलेष्वपि।
अपि च गताद्यर्थानां यथा क्तः चेदपि कर्तरि प्रयोगः (अहं गतः) तथैव तॄ-धातोः अपि स्यात् किल। अहं उत्तीर्णः अभवम् इति प्रयोगसत्त्वात्। अथवा ईदृशाः प्रयोगा असाधवः? मया उत्तीर्णमित्येव भवेत्? उभयथाऽपि साधु भासते।
अहं ग्रामं गतः । मया तत्र गतम् । (सूत्रे चकारेण यथाप्राप्तं भावकर्मणोः गृह्यते)