एतत् मम मित्रम् vs एषः मम मित्रम्
2
0
Entering edit mode
QUESTION
9 months ago
bandhu 430

उभयथा हि श्रूयते लोके, एतत् मम मित्रम् । एषः मम मित्रमिति वा । कतरत् साधु?

साधुता व्याकरणम् • 228 views
ADD COMMENT

2 Answers

0
Entering edit mode
ANSWER
9 months ago
Prathibha ▴ 80

एतत् मम मित्रम् इत्येव साधु वाक्यं यतः एतत् इति पदं मित्र- पदस्य विशेषणम् (सार्वनामिकम्)। यल्लिङ्गं यद्वचनं... नियमानुसारं एतत् इति भवेत्।

ADD COMMENT
0
Entering edit mode

भगिनि, विशेषण-विशेष्यभावः स्वीक्रियते चेत् एतत् इति साधु। परन्तु उद्देश्य-विधेय-भावः स्वीक्रियते चेत् एषः इत्यपि साधु स्यात् किल। पुरतः विद्यमानः एषः रमेशः, मम मित्रम् ।

ADD REPLY
0
Entering edit mode
ANSWER
9 months ago
Prathibha ▴ 80

एषः रमेशः मम मित्रं इत्यत्र रमेशः विशेष्यः। एषः इति रमेशस्य विशेषणम् खलु

ADD COMMENT
0
Entering edit mode

एषः इति यथा रमेशस्य विशेषणं तथैव मूले वाक्ये एषः (द्योत्यमानः पुरुषः) मम मित्रम् इति भवेदेव किल

ADD REPLY

Login before adding your answer.

Traffic: 9 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.