निर्माय vs निर्मीय
1
0
Entering edit mode
QUESTION
8 months ago
bandhu 430

उभयथा हि श्रूयते लोके निर्माय निर्मीय इति । किं पदं कस्मिन् सन्दर्भे प्रयोक्तव्यम् ?

साधुता व्याकरणम् • 180 views
ADD COMMENT

1 Answer

1
Entering edit mode
ANSWER
8 months ago
bandhu 430

इदम् उत्तरं सङ्कलितम् - https://worldsanskrit.net/wiki/12---vyAvahArikii-shikShikA/nirmayanirmiya

प्रश्नः

"सः नूतनं गृहं निर्माय वसति" उत "सः नूतनं गृहं निर्मीय वसति" ? कस्साधुः ?

उत्तरम्

"सः नूतनं गृहं निर्माय वसति" इत्येव साधुः प्रयोगः |

  • निर् उपसर्गपूर्वकः माधातोः (माङ् -माने जुहोत्यादिः, माङ् - माने दिवादिः, मा - माने अदादिः) क्त्वा प्रत्यये परे "समासेऽनञ्पूर्वे क्त्वो ल्यप्‌" इत्यस्मात् ल्यबादेशः भवति | तेन निर् + मा + ल्यप् |

  • लकारपकारयोः इत्संज्ञायां लोपे च कृते निर् + मा + य |

  • "घुमास्थागापाजहातिसां हलि" इति सूत्रेण ईत्वं भवति स्म -> निर् + मी + य |

  • किन्तु "न ल्यपि" इति सूत्रेण ईत्वनिषेधे निर् + मा + य इत्येव तिष्ठति |

अतः निर्माय इत्येव साधुः न तु निर्मीय।

उदा--

तथेति गिरिशादिष्टो मयः पर-पुरं-जयः

पुरं निर्माय शाल्वाय प्रादात् सौभम् अयस्-मयम्

ADD COMMENT

Login before adding your answer.

Traffic: 25 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.