यदि-चेत् प्रयोगः
1
0
Entering edit mode
QUESTION
8 months ago
bandhu 430

"यदि कक्ष्या अस्ति चेत् आगच्छामि" इति प्रयोक्तव्यम् उत "यदि कक्ष्या अस्ति तर्हि आगच्छामि" इति प्रयोक्तव्यम् ?

साधुता व्याकरणम् • 255 views
ADD COMMENT

1 Answer

1
Entering edit mode
ANSWER
8 months ago
bandhu 430

इतः सङ्कलितम् - https://worldsanskrit.net/wiki/12---vyAvahArikii-shikShikA/yadi-tarhi

"पक्षान्तरे चेद्यदि च" (३-४-१२) इति अमरकोषवाक्येन यदि-चेत् उभयोः समानः अर्थः । तस्मात् 'यदि, चेत्' अनयोः एकस्मिन् वाक्ये प्रयोगः उक्तार्थस्यैव पुनः कथनं भवति । तदा पुनरुक्तिदोषः अपि । अतः यदि प्रयोगे चेत् प्रयोगः न स्यात् । यदि प्रयोगे तर्हि प्रयोगः कर्तव्यः ।

साधू प्रयोगौ इमौ

  • यदि कक्ष्या अस्ति तर्हि आगच्छामि ।

  • कक्ष्या अस्ति चेत् आगच्छामि ।

एवमेव चेत्-तर्हि अनयोः प्रयोगोपि युज्यते यथा "चेत् कक्ष्या अस्ति तर्हि आगच्छामि" । "कक्ष्या अस्ति यदि आगच्छामि" इत्यपि शक्यते प्रयोक्तुम् ।

References:

ADD COMMENT

Login before adding your answer.

Traffic: 25 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.