"यदि कक्ष्या अस्ति चेत् आगच्छामि" इति प्रयोक्तव्यम् उत "यदि कक्ष्या अस्ति तर्हि आगच्छामि" इति प्रयोक्तव्यम् ?
"यदि कक्ष्या अस्ति चेत् आगच्छामि" इति प्रयोक्तव्यम् उत "यदि कक्ष्या अस्ति तर्हि आगच्छामि" इति प्रयोक्तव्यम् ?
1 Answer
इतः सङ्कलितम् - https://worldsanskrit.net/wiki/12---vyAvahArikii-shikShikA/yadi-tarhi
"पक्षान्तरे चेद्यदि च" (३-४-१२) इति अमरकोषवाक्येन यदि-चेत् उभयोः समानः अर्थः । तस्मात् 'यदि, चेत्' अनयोः एकस्मिन् वाक्ये प्रयोगः उक्तार्थस्यैव पुनः कथनं भवति । तदा पुनरुक्तिदोषः अपि । अतः यदि प्रयोगे चेत् प्रयोगः न स्यात् । यदि प्रयोगे तर्हि प्रयोगः कर्तव्यः ।
साधू प्रयोगौ इमौ
यदि कक्ष्या अस्ति तर्हि आगच्छामि ।
कक्ष्या अस्ति चेत् आगच्छामि ।
एवमेव चेत्-तर्हि अनयोः प्रयोगोपि युज्यते यथा "चेत् कक्ष्या अस्ति तर्हि आगच्छामि" । "कक्ष्या अस्ति यदि आगच्छामि" इत्यपि शक्यते प्रयोक्तुम् ।
References:
Use of this site constitutes acceptance of our User Agreement and Privacy Policy.