प्रज्वलयति vs प्रज्वालयति
1
0
Entering edit mode
QUESTION
8 months ago
bandhu 430

प्रज्वालितो ज्ञानमयः प्रदीपः इति गीताध्यानश्लोकेषु श्रूयते । व्याकरणे घटादयो मितः इति गणसूत्रम् । घटादिषु ज्वल् धातुः अपि पठितः । अतः ज्वलयति इति स्यात् मितां ह्रस्वः इति हेतोः । ज्वालयति इति कथं सिद्ध्येत्?

साधुता व्याकरणम् • 150 views
ADD COMMENT

1 Answer

2
Entering edit mode
ANSWER
8 months ago
Sanskrit ▴ 520

उत्तीर्णवन्त एव भट्टोजिदीक्षितवर्याः सिद्धान्तकौमुद्याम् -

उपसृष्टे तु नित्यं मित्त्वम् । प्रज्वलयति । कथं तर्हि प्रज्वालयति । उन्नामयतीति । घञन्तात्तत्करोतीति णौ । 1

तस्मात् ज्वल् + घञ् = ज्वालः, तत् करोति तदाचष्टे इत्यनेन णौ विहिते ज्वालयतीति सिद्धम्। प्रज्वालयतीत्यत्राऽपि तथैव कार्यम्।

ADD COMMENT

Login before adding your answer.

Traffic: 46 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.