Entering edit mode
                    
                    
                    QUESTION
                    
                    
                        
    
    
        
                    
                
                    
                        
                
                
                    
                    
                
                
                
                
            22 months ago
        Bharath
        
    
        ▴
    
    30
    सर्वेभ्यो नमः ।
सम्राट् + नयति इत्यस्याः संहितायाः प्रक्रियां जिज्ञासुरस्मि। केषुचन पुस्तकेषु सम्राण्ण्यति इति सन्धियुक्तं पदं दत्तमस्ति ।
सम्राट् + नयति
सम्राण् + नयति  (८.४.४५ - यरोऽनुनासिकेऽनुनासिको वा) 
सम्राण्नयति  इत्येव भवेत्  यतः  (८.४.४२ न पदान्ताट्टोरनाम्) इत्येन नयति पदस्य णकारः निशिद्धः।
अनाम्-नवति-नगरीणाम् इत्येन वार्तिकेनापि णकारः न सिद्ध्यति।
कृपया एतस्य समाधानं दीयताम् ।

सूत्रदिशा तु सम्राट् नयति / सम्राण् नयति इति रूपद्वयमेव साधु ।