देशवाचकपदानां बहुवचनप्रयोगे किं मानम्?
1
0
Entering edit mode
QUESTION
7 months ago
bandhu 430

केरळेषु कर्णाटकेषु महाराष्ट्रेषु इत्येवमारभ्य देशवाचिशब्देभ्यः बहुवचनं प्रयुज्यते। तत्र किं प्रमाणमिति जिज्ञासा?

व्याकराणम् प्रयोगः • 148 views
ADD COMMENT

1 Answer

1
Entering edit mode
ANSWER
7 months ago
bandhu 430

अष्टाध्याय्यां तदशिष्यं संज्ञाप्रमाणत्वात् १.२.५३ इति सूत्रमस्ति ।

तत्र काशिकावृत्तौ - संज्ञाशब्दा हि नानालिङ्गसंख्याः प्रमाणम्। पञ्चाला वरणा इति च। नैते योगशब्दाः। किं तर्हि? जनपदादीनां संज्ञा एताः। तत्र लिङ्गं वचनं च स्वभावसिद्धमेव न यत्नप्रतिपाद्यम्

अतः अत्र स्पष्टं विवरीतं यत् संज्ञाशब्दानां लिङ्गं वचनं च स्वभावसिद्धमेव न तु प्रक्रियासिद्धम् (यत्नप्रतिपाद्यम्)।

श्रीशव्याख्याने - The gender and number of particular derivatives or adjectives are not blindly to be fixed by the primary words or the governed substantives; but it is a matter more or less of usage or idiom: and no hard and fast rule can be laid down for it.

बालमनोरमायां तु - संज्ञानामिति । लोकव्यवहाराणामित्यर्थः ।

अत्र आचार्यव्यवहारोऽपि प्रमाणम् - संज्ञायां कन्थोशीनरेषु २.४.२० - अस्मिन् सूत्रे उशीनरेषु इति बहुवचने प्रयुक्तम् ।

कृतज्ञताः - Pushpa भगिनी, Yogesh महोदयः

सन्दर्भाः -

ADD COMMENT
1
Entering edit mode

अवृद्धादपि बहुवचनविषयात् इति सूत्रमपि द्रष्टव्यम्

ADD REPLY

Login before adding your answer.

Traffic: 25 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.