विक्रामतेः पदम्
1
1
Entering edit mode
QUESTION
7 months ago
Sanskrit ▴ 520

कामन्दकीय नीतिसारे दृश्यते [ ९/५२] -

बलीयसि प्रणमतां काले विक्रामतामपि। सम्पदो नापगच्छन्ति प्रतीपमिव निम्नगाः॥ इति।

अत्र जयमङ्गलव्याख्यानम् - काले विक्रामतामपीति। अभ्युच्चयकाले विक्रममाणा अप्यनभ्युच्चिताश्चेत् प्रणमन्ति तदैषां सम्पदो नापगच्छन्ति। इति। अत्र मूले विक्रामतेः परस्मैपदे प्रयोगष्टीकायां पुनरात्मनेपदे प्रयोगः। कतरोऽनयोः शुद्ध इति संशय।

[प्रश्नोऽयं सप्रतिवचनो मञ्जूषा-पत्रिकायाः 1958 December मासस्याङ्के स्थापितः।]

मञ्जूषा व्याकरणम् परस्मैपदम् • 111 views
ADD COMMENT

1 Answer

2
Entering edit mode
ANSWER
7 months ago
Sanskrit ▴ 520

संस्कृतव्याकरणेषु क्रामतिः परस्मैपदी, क्रमु पादविक्षेपे इति धातुपाठे समाम्नानात्। विपूर्वः क्रामतिः पादविहरण एवात्मनेपदी, वेः पादविहरण इति स्मरणात्। अत एव मूलस्थं परस्मैपदं साधु टीकास्थमात्मनेपदमसाध्विति बोद्धव्यम्।

यद्यपि भारतरामायणादिषु विक्रामतिः पराक्रमप्रदर्शन उभयपदी तथाऽपि भाषायामयं परस्मैपदी । तथा च भवभूतिप्रयोगः-

दोर्निष्पेषविशीर्णसञ्चयदलत्कङ्कालमुन्मथ्नतः प्राग्वीराननुपत्य तत्प्रहरणान्याच्छिद्य विक्रामतः। उद्वेल्लङ्घनरुण्डखण्डनिकराकीर्णस्य सङ्घोदधे र्द्वेधा स्तम्भितपत्तिपङ्क्तिविकटः पन्थाः पुरस्तादभूत्॥ मालतीमाधव ८/९

अत्र टीकाकारः - विक्रामतः अभिमुखेषु पराक्रमं प्रयुञ्जानस्येति व्याचख्यौ। अत एव नीतिसारख्याख्यायां पराक्रममाणा इति पठनीयम्। उपपराभ्यामिति - सूत्रेणोत्साह आत्मनेपदं सिध्यति।

मूले बलीयसि प्रणमतामित्यत्राधारविवक्षायां सप्तमी। बलीयसे बलीयस इति वा पाठः साधीयान् स्यात्।

येषामुत्साहशक्तिर्भवति ते स्वल्पा अपि गुरून् विक्रमन्ते इति पञ्चतन्त्रप्रयोगोऽपि प्रामादिकः।

हेमचन्द्रबृहद्वृत्तौ विस्पष्टमेवोक्तम् - विक्रामति राजा। उत्सहत इत्यर्थः।

ADD COMMENT

Login before adding your answer.

Traffic: 46 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.