द्विकर्मकाणां णिचि प्रयोगः
1
2
Entering edit mode
QUESTION
6 months ago
Bharath ▴ 30

दुह्-याच्-पच्-दण्ड्-रुधि-प्रच्छि-चि-ब्रू-शासु-जि-मथ-मुषाम्। नी-हृ-कृष्-वहाम्।

१६ द्विकर्मकाः धातवः स्न्तीति ज्ञातपूर्वो विषयः। गतिबुद्धिप्रभृतीनां (१.४.५२) सुत्रैः प्रयोज्यकर्तुः द्वितीया उत तृतीया इति निर्णीयते। तेषां णिचि कथं रूपाणि प्रयोगाश्च भवन्तीति जिज्ञासा वर्तते।

अणिजन्ते यथा - गोपालकः गां पय: दोग्धि। णिजन्ते एवं भवति किम् ? गृहस्वामी गोपालकेन गां पयः दोहयति। (यतः दुह् गतिबुद्धिप्रभृतिषु सूत्रेषु नान्तर्भवति।)

धातुः प्रयोगः द्विकर्मकः व्याकरणम् णिच् • 255 views
ADD COMMENT
0
Entering edit mode

णत्वणिजन्तपुस्तके अस्य उल्लेखः नोपलभ्यते वा?

ADD REPLY
0
Entering edit mode

णत्वणिजन्तपुस्तके द्विकर्मकाणां धातूनां विषये उल्लेखः नास्ति। यद्यपि वहादयः धातवः दत्ताः तथापि उदाहरणेषु कर्मद्वयं न दृश्यते ।

ADD REPLY

1 Answer

2
Entering edit mode
ANSWER
5 months ago
Sanskrit ▴ 520

एवम्। "गृहस्वामी गोपालकेन गां पयो दोहयति।" इतिवदेव भवति।

अधिकन्त्वस्मिन् विषये कारकसम्बन्धोद्योत इति पुस्तके स्पष्टीकृतं दृश्यते।

तद् अत्र द्रष्टुं शक्यते।

ADD COMMENT
0
Entering edit mode

उपकृतोऽस्मि।

ADD REPLY

Login before adding your answer.

Traffic: 46 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.