Entering edit mode
                    
                    
                    QUESTION
                    
                    
                        
    
    
        
                    
                
                    
                        
                
                
                    
                    
                
                
                
                
            19 months ago
        Bharath
        
    
        ▴
    
    30
    दुह्-याच्-पच्-दण्ड्-रुधि-प्रच्छि-चि-ब्रू-शासु-जि-मथ-मुषाम्। नी-हृ-कृष्-वहाम्।
१६ द्विकर्मकाः धातवः स्न्तीति ज्ञातपूर्वो विषयः। गतिबुद्धिप्रभृतीनां (१.४.५२) सुत्रैः प्रयोज्यकर्तुः द्वितीया उत तृतीया इति निर्णीयते। तेषां णिचि कथं रूपाणि प्रयोगाश्च भवन्तीति जिज्ञासा वर्तते।
अणिजन्ते यथा - गोपालकः गां पय: दोग्धि। णिजन्ते एवं भवति किम् ? गृहस्वामी गोपालकेन गां पयः दोहयति। (यतः दुह् गतिबुद्धिप्रभृतिषु सूत्रेषु नान्तर्भवति।)

णत्वणिजन्तपुस्तके अस्य उल्लेखः नोपलभ्यते वा?
णत्वणिजन्तपुस्तके द्विकर्मकाणां धातूनां विषये उल्लेखः नास्ति। यद्यपि वहादयः धातवः दत्ताः तथापि उदाहरणेषु कर्मद्वयं न दृश्यते ।