Entering edit mode
                    
                    
                    QUESTION
                    
                    
                        
    
    
        
                    
                
                    
                        
                
                
                    
                    
                
                
                
                
            18 months ago
        Sanskrit
        
    
        ▴
    
    540
    कण्ड्वादिभ्यो यक्॥३।१।२७॥ इति सूत्रेण कण्ड्वादिभ्यो धातुभ्यो यक् प्रत्ययो विहितः।
तत्र कौमुद्यां दीक्षितैरित्थमुल्लेखः कृतः -
असु उपतापे । असू । असूञ् । इत्येके । अस्यति। असूयति । असूयते ।
अत्र यकि दीर्घत्वे कृते असु-धातोः असूयतीति रूपम् साधु सिद्धयति। अथ कथं तत्र वर्यैः "अस्यति" इति रूपं निविष्टम्? कथं नाम तत् सिद्ध्यति?
