Entering edit mode
2 Answers
कुतो न । लडादेशाः प्रसिद्धाः एव ।
तिप् प्रत्ययः लस्य स्थाने आदेशः एव
आगमस्य विषये तु चिन्तनीयम्
"अकच्प्रकरणे तूष्णीमः काम्प्रत्ययो वक्तव्यः" इत्यनेन काम् प्रत्ययः मित् अस्ति।
तेन सः आगमो वा?
हैमे व्याकरणे तावत्
अनन्तः पञ्चम्याः प्रत्ययः॥१।१।३८॥
वृत्तिः - पञ्चम्यर्थाद् विहितः प्रत्ययसंज्ञः स्यात्।
शब्दानुशासने यत् पञ्चम्या विभक्त्या निर्दिष्टं=विहितं, स प्रत्ययसंज्ञां लभते। यथा - नाम्नः प्रथमैकद्विबहौ॥२।२।३१॥ - अत्र प्रथमाविभक्तिसत्काः प्रत्ययाः। यत्र च पञ्चम्याः विभक्त्याः प्रयोगेऽपि अन्तपदनिवेशः, स पुनरागमः। यथा उदितः स्वरान्नोऽन्तः॥४।४।९८॥
इह आगम-प्रत्यययो र्भेदस्तु स्पष्ट एव।
Use of this site constitutes acceptance of our User Agreement and Privacy Policy.
प्रत्ययः इति सूत्रे काशिकायाम् - प्रकृत्युपपदोपाधिविकारागमान् वर्जयित्वा ।
तत्रैव पदमञ्जर्याम् - आगमानां चानुदातत्वविधानादाद्यौदातत्वस्यासम्भवः, सति तु प्रयोजने आगमस्यापि श्नमः शकारस्येत्संज्ञार्थ भवत्येव संज्ञा ।
प्रत्ययाः आद्युदात्ताः भवन्ति । आगमाः अनुदात्ताः । अतः प्रत्ययाः आगमाः भवितुं नार्हन्ति । परन्तु सति प्रयोजने आगमस्य श्नमः प्रत्ययसंज्ञा । इति सप्रमाणं स्पष्टम् । Sanskrit अभिनन्दनार्हः :)