अपि प्रत्ययः आदेशः आगमो वा भवति?
2
0
Entering edit mode
QUESTION
8 weeks ago
bandhu 430

स एव प्रत्ययः आदेशः आगमो वा भवितुमर्हति किम्?

व्याकरणम् • 132 views
ADD COMMENT

2 Answers

2
Entering edit mode
ANSWER
8 weeks ago
bandhu 430

कुतो न । लडादेशाः प्रसिद्धाः एव ।

तिप् प्रत्ययः लस्य स्थाने आदेशः एव

आगमस्य विषये तु चिन्तनीयम्

"अकच्प्रकरणे तूष्णीमः काम्प्रत्ययो वक्तव्यः" इत्यनेन काम् प्रत्ययः मित् अस्ति।

तेन सः आगमो वा?

द्रष्टव्यम् - प्रायः प्रत्ययाः आद्युदात्ताः भवन्ति । आगमाः अनुदात्ताः । अतः प्रत्ययाः आगमाः भवितुं नार्हन्ति । इति पदमञ्जर्यां स्पष्टम् । परन्तु सति प्रयोजने आगमस्य श्नमः प्रत्ययसंज्ञा ।

ADD COMMENT
0
Entering edit mode

प्रत्ययः इति सूत्रे काशिकायाम् - प्रकृत्युपपदोपाधिविकारागमान् वर्जयित्वा ।

ADD REPLY
1
Entering edit mode

तत्रैव पदमञ्जर्याम् - आगमानां चानुदातत्वविधानादाद्यौदातत्वस्यासम्भवः, सति तु प्रयोजने आगमस्यापि श्नमः शकारस्येत्संज्ञार्थ भवत्येव संज्ञा ।

प्रत्ययाः आद्युदात्ताः भवन्ति । आगमाः अनुदात्ताः । अतः प्रत्ययाः आगमाः भवितुं नार्हन्ति । परन्तु सति प्रयोजने आगमस्य श्नमः प्रत्ययसंज्ञा । इति सप्रमाणं स्पष्टम् । Sanskrit अभिनन्दनार्हः :)

ADD REPLY
1
Entering edit mode
ANSWER
8 weeks ago
Sanskrit ▴ 520

हैमे व्याकरणे तावत्

अनन्तः पञ्चम्याः प्रत्ययः॥१।१।३८॥

वृत्तिः - पञ्चम्यर्थाद् विहितः प्रत्ययसंज्ञः स्यात्।

शब्दानुशासने यत् पञ्चम्या विभक्त्या निर्दिष्टं=विहितं, स प्रत्ययसंज्ञां लभते। यथा - नाम्नः प्रथमैकद्विबहौ॥२।२।३१॥ - अत्र प्रथमाविभक्तिसत्काः प्रत्ययाः। यत्र च पञ्चम्याः विभक्त्याः प्रयोगेऽपि अन्तपदनिवेशः, स पुनरागमः। यथा उदितः स्वरान्नोऽन्तः॥४।४।९८॥

इह आगम-प्रत्यययो र्भेदस्तु स्पष्ट एव।

ADD COMMENT

Login before adding your answer.

Traffic: 25 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.