"समचीकथत्" रूपस्य साधुता
        1
    
    
    
        
        
        
        
            
                
                
                    
                    QUESTION
                    
                    
                        
                    
                
                    
                        "Question from Samskrit Google Group"
Friends,
Namaste.
I need help in identifying the verb form समचीकथत् in the following text (from the Sanskrit translation of Don Quixote):
डान् क्विक्षोट-दन्तपीडया नितान्तमुद्विग्नमनस्को मन्दगमनमेव स्वीचकार सांचुः। पथि च तस्य चेतोविनोदनं चिकीर्षुर्बह्वीवार्ताः, अन्यच्च यत्किञ्चिदग्रे वक्ष्यमाणं वृत्तं विद्यते। तत्सर्वं तस्मै समचीकथत्।
Thanks for help.
T K Gopalan
                    
                
                 
                
                
                    
                    
    
        
        
            sadhu
        
        
    
        
        
            vyakarana
        
        
    
    
        • 617 views
    
                
                
                
                
    
    • 
link
    
    
    
    
    
    
        
    
        updated 15 months ago by
        
            bandhu
        
        
    
        
    
    440
        •
    
        written 15 months ago by
        
            Sanskrit
        
        
    
        ▴
    
    540
    
 
             
            
            
         
     
 
     
    
    
    1 Answer
    
        
            
                
    
    
    
    
        
        
        
        
            
                
                
                    
                    ANSWER
                    
                    
                        
                    
                
                    
                        लुङ्लकारे प्रथमपुरुषैकवचने रूपमेतत् सम्-पूर्वकस्य कथ-धातोरन्यदीयमतेन।
विस्तरः -
समचकथद् इति न मानकं रूपं पाणिनीये।
कारणं तु -
दीर्घो लघोः॥७।४।९४॥ सूत्रस्य प्रसक्तेरभावः, अग्लोपत्वात्।
किं च क्षीरतरङ्गिण्याम् -
कथमचीकथत्? प्रकृत्यन्तरम् अन्वेष्यम्॥ इति (LINK)
किं च हैमे धातुपारायणे -
कथमचीकथत्? "भूरिदाक्षिण्यसंपन्नं यत्त्वं सान्त्वमचीकथः" इति प्रयोगं दृष्ट्वा ये गणयतेरन्यस्याऽपि पूर्वस्य ईत्वम् इच्छन्ति, तन्मते भविष्यति प्रकृत्यन्तरं वाऽन्वेष्यम्॥ इति
प्रयुक्तश्चाऽयं मल्लिनाथसूरिणा नैषधीयसत्कजीवातुटीकायाम् -
अवोचत् अचीकथत्॥१७।१३९॥
उक्तं हि प्रक्रियाकौमुद्याम् -
कथोऽभ्यास ईत्वं वेति केचित्। अचीकथत्। अचकथत्।
केचिदिति अर्वाचीनाः। अत एव आह क्षीरस्वामी...मुग्धबोधे तूक्तम्। "वेङ्गणकथः खेर्ञ्यङि॥" LINK
सारस्वतेऽपि शब्दानुशासने तथादर्शनम् -
कथगणयोरङ्कार्यं चेति केचित्॥ १०४० सूत्रवृत्तौ
मुग्धबोधे तु विधानपाठः इह
इत्यलं विस्तरेण॥
                    
                
                 
                
                
                
                
                
             
            
            
         
     
 
         
        
    
    
        
            
                Login before adding your answer.
         
    
    
         
        
            
        
     
    
    Traffic: 7 users visited in the last hour
         
    
    
        
    
    
 
पाणिनीये अपि अचकथत् इत्येव मानकमिति मन्ये
यद्यपि अचीकथत् इत्यपि बहुभिः अङ्गीक्रियते
अत एव किल क्षीरतरङ्गिण्यामपि प्रकृत्यन्तरमन्वेष्यमिति उक्तम्
काशिकायामपि अचकथत् इति स्वीकृतम्