"समचीकथत्" रूपस्य साधुता
1
1
Entering edit mode
QUESTION
2.3 years ago
Sanskrit ▴ 540

"Question from Samskrit Google Group"

Friends,

Namaste. I need help in identifying the verb form समचीकथत् in the following text (from the Sanskrit translation of Don Quixote):

डान् क्विक्षोट-दन्तपीडया नितान्तमुद्विग्नमनस्को मन्दगमनमेव स्वीचकार सांचुः। पथि च तस्य चेतोविनोदनं चिकीर्षुर्बह्वीवार्ताः, अन्यच्च यत्किञ्चिदग्रे वक्ष्यमाणं वृत्तं विद्यते। तत्सर्वं तस्मै समचीकथत्।

Thanks for help. T K Gopalan

sadhu vyakarana • 1.1k views
ADD COMMENT •

1 Answer

2
Entering edit mode
ANSWER
2.3 years ago
Sanskrit ▴ 540

लुङ्लकारे प्रथमपुरुषैकवचने रूपमेतत् सम्-पूर्वकस्य कथ-धातोरन्यदीयमतेन।

विस्तरः - समचकथद् इति न मानकं रूपं पाणिनीये। कारणं तु - दीर्घो लघोः॥७।४।९४॥ सूत्रस्य प्रसक्तेरभावः, अग्लोपत्वात्।

किं च क्षीरतरङ्गिण्याम् - कथमचीकथत्? प्रकृत्यन्तरम् अन्वेष्यम्॥ इति (LINK)

किं च हैमे धातुपारायणे - कथमचीकथत्? "भूरिदाक्षिण्यसंपन्नं यत्त्वं सान्त्वमचीकथः" इति प्रयोगं दृष्ट्वा ये गणयतेरन्यस्याऽपि पूर्वस्य ईत्वम् इच्छन्ति, तन्मते भविष्यति प्रकृत्यन्तरं वाऽन्वेष्यम्॥ इति

प्रयुक्तश्चाऽयं मल्लिनाथसूरिणा नैषधीयसत्कजीवातुटीकायाम् - अवोचत् अचीकथत्॥१७।१३९॥

उक्तं हि प्रक्रियाकौमुद्याम् - कथोऽभ्यास ईत्वं वेति केचित्। अचीकथत्। अचकथत्। केचिदिति अर्वाचीनाः। अत एव आह क्षीरस्वामी...मुग्धबोधे तूक्तम्। "वेङ्गणकथः खेर्ञ्यङि॥" LINK सारस्वतेऽपि शब्दानुशासने तथादर्शनम् - कथगणयोरङ्कार्यं चेति केचित्॥ १०४० सूत्रवृत्तौ

मुग्धबोधे तु विधानपाठः इह

इत्यलं विस्तरेण॥

ADD COMMENT •
1
Entering edit mode

पाणिनीये अपि अचकथत् इत्येव मानकमिति मन्ये

यद्यपि अचीकथत् इत्यपि बहुभिः अङ्गीक्रियते

अत एव किल क्षीरतरङ्गिण्यामपि प्रकृत्यन्तरमन्वेष्यमिति उक्तम्

काशिकायामपि अचकथत् इति स्वीकृतम्

ADD REPLY •

Login before adding your answer.

Traffic: 2 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.