शेखरः
यत्तु 'ओरोदि'ति वाच्ये ओर्गुणः ६.४.११६ इति गुणग्रहणात् — संज्ञापूर्वकविधेरनित्यत्वम् । इयं च विधेयकोटौ संज्ञापूर्वत्व एव । तेन स्वायम्भुवमित्यादि सिद्धम् ॥
नीलेशव्याख्या
संज्ञापूर्वकः विधिः अनित्यः इति काचन परिभाषा अस्ति । अस्याः परिभाषायाः अर्थः अयम् - यदि कस्मिंश्चित् सूत्रे संज्ञानिर्देशं कृत्वा कश्चन विधिः उक्तः अस्ति, तर्हि केषुचन स्थलेषु तस्य सूत्रस्य अवकाशे प्राप्ते अपि तस्य सूत्रस्य प्रयोगं विना एव रूपाणि सिद्ध्यन्ति । एतादृशाः विधयः, येषामवकाशे प्राप्ते अपि प्रयोगः कुत्रचित् न क्रियते, ते 'अनित्याः' सन्ति इत्युच्यते । वर्तमानसूत्रे 'गुण' संज्ञायाः निर्देशं कृत्वा विधिः उक्तः अस्ति, अतः वर्तमानसूत्रेण उक्तः विधिः अपि अनित्यः अस्ति