Tutorial:संज्ञापूर्वको विधिरनित्यः
1
0
Entering edit mode
11 months ago
bandhu 440

शेखरः

यत्तु 'ओरोदि'ति वाच्ये ओर्गुणः ६.४.११६ इति गुणग्रहणात् — संज्ञापूर्वकविधेरनित्यत्वम् । इयं च विधेयकोटौ संज्ञापूर्वत्व एव । तेन स्वायम्भुवमित्यादि सिद्धम् ॥

नीलेशव्याख्या

संज्ञापूर्वकः विधिः अनित्यः इति काचन परिभाषा अस्ति । अस्याः परिभाषायाः अर्थः अयम् - यदि कस्मिंश्चित् सूत्रे संज्ञानिर्देशं कृत्वा कश्चन विधिः उक्तः अस्ति, तर्हि केषुचन स्थलेषु तस्य सूत्रस्य अवकाशे प्राप्ते अपि तस्य सूत्रस्य प्रयोगं विना एव रूपाणि सिद्ध्यन्ति । एतादृशाः विधयः, येषामवकाशे प्राप्ते अपि प्रयोगः कुत्रचित् न क्रियते, ते 'अनित्याः' सन्ति इत्युच्यते । वर्तमानसूत्रे 'गुण' संज्ञायाः निर्देशं कृत्वा विधिः उक्तः अस्ति, अतः वर्तमानसूत्रेण उक्तः विधिः अपि अनित्यः अस्ति

व्याकरणम् परिभाषा • 366 views
ADD COMMENT
0
Entering edit mode
ANSWER
11 months ago
bandhu 440

सूत्रेषु यदि गुणवृद्ध्यादिसंज्ञाः प्रयुज्य विधिः कृतः तर्हि सः अनित्यः

अन्यत्र उदाहरणमस्ति ओर्गुणः इति सूत्रे ओरोत् इति वक्तव्ये गुणपदं प्रयुक्तम् अनित्यत्वज्ञापनाय

अनित्यः इत्युक्ते केषुचित् स्थलेषु सूत्रं न प्रवर्तते।

ADD COMMENT

Login before adding your answer.

Traffic: 6 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.