News:[CFP] Call for papers in Shrutishobha journal
0
0
Entering edit mode
17 days ago
bandhu 430

वेदविज्ञानशोधसंस्थानम् चन्नेनहळ्ळी, बेङ्गळूरु ५६२१३०

बोधमार्गे शोधमार्गे च इयं संस्था आबहोः कालात् कार्यं कुर्वती वर्तते इति तु भवतां सर्वेषां विदितमेव। राष्ट्रिय-अन्ताराष्ट्रियकार्याशालाः अनया संस्थया आयोजिताः। बहूनि पुस्तकानि, शोधपत्रिकाश्च प्रकाशिताः। सम्प्रति “ श्रुतिशोभा ” इति विद्वत्परिशीलित-त्रैमासिकी शोधपत्रिका प्रकाश्यमाना वर्तते। तत्रभवन्तः भवन्तः स्वीयान् शोधलेखान् दातुं शक्नुवन्ति।

अस्य त्रैमासिकस्य मुख्यः विषयः वर्तते भारते आचर्यमाणपर्वणां शास्त्रीयं वैज्ञानिकं च महत्त्वम् इति। एतेन सह भारतीयज्ञानपरम्परासम्बद्धाः आधुनिकविषयाः, शास्त्रीयविषयाश्च भवितुमर्हन्ति।

शोधपत्रस्य प्रेषणसूत्रम् – [email protected] शोधपत्रप्रेषणस्य अन्तिमः दिनाङ्कः –August 30 - 2024

cfp • 17 views
ADD COMMENT

Login before adding your answer.

Traffic: 46 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.