रदाभ्यां निष्ठातो नः पूर्वस्य च दः - इति सूत्रेण ऋतमित्यत्रापि तकारस्य नत्वं स्यात्। ऋकारे रेफांशः तु अस्ति अज्भक्तिः अपि। अतः नत्वं कुतो न स्यात्?
कृतमित्यादिष्वपि समानं बोध्यम्
रदाभ्यां निष्ठातो नः पूर्वस्य च दः - इति सूत्रेण ऋतमित्यत्रापि तकारस्य नत्वं स्यात्। ऋकारे रेफांशः तु अस्ति अज्भक्तिः अपि। अतः नत्वं कुतो न स्यात्?
कृतमित्यादिष्वपि समानं बोध्यम्
1 Answer
ऋकारे यद्यपि रेफांशः वर्तते परन्तु सः केवलं चतुर्थांशः
अज्भक्तिरेव भागत्रयम् आवृणोति
अतः अज्भक्तेः तृतीयः भागः व्यवधानं जनयति.
चरितम् इत्यादौ रि इत्यत्र स्वरांशः केवलं भागद्वये अस्तीत्यतः नकारस्य प्राप्तिः भवत्येव। परन्तु तत्र विद्यमानः इकारः प्रत्ययस्य अवयवः। अतः व्यवधानं भवत्येव।
न्यासे द्रष्टव्यम्
काशिका रेफदकाराभ्यामुत्तरस्य निष्ठातकारस्य नकार आदेशो भवति, पूर्वस्य च दकारस्य रेफात् तावत् — आस्तीर्णम्। विस्तीर्णम्। विशीर्णम्। निगीर्णम्। अवगूर्णम्। दकारात् — भिन्नः। भिन्नवान्। छिन्नः। छिन्नवान्। रदाभ्यामिति किम्? कृतः। कृतवान्। र इत्यत्र रश्रुतिसामान्यं नोपादीयते। किं तर्हि? व्यञ्जनमात्रम्। रेफसामान्यनिर्देशेऽपि सति रेफात् परा याज्भक्तिः, तद्व्यवधानाद् नत्वं न भवति। निष्ठेति किम्? कर्ता। हर्ता। त इति किम्? चरितम्। मुदितम्। पूर्वस्येति किम्? परस्य मा भूत् — भिन्नवद्भ्याम्, भिन्नवद्भिः। इह कृतस्यापत्यं कार्तिरिति वृद्धेर्बहिरङ्गलक्षणाया असिद्धत्वाद् नत्वे कर्तव्ये रेफस्यासिद्धत्वम्॥
न्यासः
आस्तीर्णम्
इति। स्तृञ्? आच्छादने
(धातुपाठः-१४८४)। ऋत इद्धातोः
७.१.१०० इतीत्त्वम्, हलि च
८.२.७७ इति दीर्घः। विशीर्णम्
इति। शृहिंसायाम्
(धातुपाठः-१४८८)। निगीर्णम्
इति। गृ? निगरणे
(धातुपाठः-१४१०)। एषु श्रयुकः किति
७.२.११ इतीट्प्रतिषेधः, अवगूर्णम्
इति। गुरी उद्यमने
(धातुपाठः-१३९६)। श्वीदितो निष्ठायाम्
७.२.१४ इतीट्प्रतिषेधः। अथ यथा कृपो रो लः ८.२.१८ इत्यत्र र
इति वर्णत्वावर्णत्वकृतं भेदमुत्सृज्य सामान्यस्योपादानम्, तथेहापि,
अस्ति च ऋकारे रेफः ततश्च कृतः कृतवानित्यत्र भवितव्यमेव नत्वेनेति यो मन्यते, तं प्रत्याह -र इत्यत्र
इत्यादि। यद्यत्र र
इति सामान्यमुपादीयेत तस्मादेवः प्रसङ्गः, न तु रश्रुतिसामान्यमुपादीयते, किं तर्हि? व्यञ्जनमर्धमात्रात्मकम्। न च समानाकारोऽस्तीति कुतो नत्वप्रसङ्गः? भवतु नाम सामान्यस्योपादानम्, तथापि नैवात्र नत्वं प्रसज्यत इति दर्शयितुमाह -सामान्यनिर्देशेऽपि
इत्यादि। ऋकारोऽत्र ये भागास्तन्मध्यवर्ती रेफो मात्राचतुर्भागात्मकः, तत्र योऽसौ रेफात्परस्तृतीयो भागस्तेन व्यवधानान्न भवति।चरितम्, मुदितम्
इति। चर गत्यर्थः
(धातुपाठः-५५९),मुद हर्षे
(धातुपाठः-१६)। असति हि त
इति ग्रहणे रदाभ्याम्
इत्यनेन निष्ठा विशेष्यते -रदाभ्यां परा या निष्ठेति, ततश्चरितमित्यादौ आदेः परस्य १.१.५४ इति इट एव नत्वं स्यात्; तस्य निष्ठाभक्तत्वात्। अथ त
इत्युच्यमाने चरितमित्यादौ तकारस्य कस्मान्न भवति? इटा व्यवहितत्वात्। स हि प्रत्ययभक्तत्वात्? प्रत्ययमेव न व्यवदध्यात्। तदवयवत्वं तु व्यवदध्यादेव।
Use of this site constitutes acceptance of our User Agreement and Privacy Policy.