Entering edit mode
                    
                    
                    QUESTION
                    
                    
                        
    
    
        
                    
                
                    
                        
                
                
                    
                    
                
                
                
                
            18 months ago
        bandhu
        
    
        
    
    440
    - नहि वचिरन्तिपरः प्रयुज्यते ।
 - झिपरे इत्येके ।
 - बहुवचनपरे इत्यपरे ।
 
अदादिगणस्य वच् धातोः रूपाणि इत्थम् -
- वक्ति, वक्तः, ___
 - वक्षि, वक्थः, वक्थ
 - वच्मि, वच्वः, वच्मः
 
चुरादिगणेऽपि खलु वच् परिभाषणे धातुः पठितः । आधृषीयश्च धातुः वा णिजन्तः । अतस्तत्रापि वचति वचतः वचन्ति इति रूपं सिध्यति एव ।
अतः वचन्ति इत्यस्य साधुता तथा स्यात् किल । आहोस्वित् नहि वचिरन्तिपरः प्रयुज्यते इतीदं चुरादिगणस्य धातुमपि व्याप्नोति?

नहि वचिरन्तिपरः० इत्यत्र गणनिर्देशः नास्तीति हेतोः उभयोः निषेधः एव स्यात्