अहमः इति कथं रूपम्?
1
0
Entering edit mode
QUESTION
5 days ago
bandhu 430

विवेकचूडामण्यां

आरूढशक्तेरहमो विनाशः

इति अहमः प्रयोगः दृष्टः। तस्य व्युत्पत्तिः कथमिति जिज्ञासा।

व्युत्पत्तिः व्याकरणम् • 32 views
ADD COMMENT
0
Entering edit mode

अहमः अहंकारस्य इति व्याख्यानेषु (h/t Sanskrit)

ADD REPLY

1 Answer

0
Entering edit mode
ANSWER
2 days ago
bandhu 430

OCR: https://archive.org/details/dli.ernet.495755/page/n191/mode/2up?view=theater

तत्र युक्तिमाह । आरूढशक्तेरिति ।

आरूढशक्तेरहमो विनाशः  कर्तुं न शक्यः सहसापि पण्डितैः ।

ये निर्विकल्पाख्य-समाधिनिश्चलाः  तानन्तराऽनन्तभवा हि वासनाः ।। ३४३ ॥

ये निर्विकल्पाख्य-समाधिनिश्चलाः समाधिः द्विविधः सविकल्पकः निर्विकल्पकश्चेति, “ ज्ञात्राद्यविलयेनैव ज्ञेये ब्रह्मणि केवले । तदाकारा-कारितया चित्तवृत्तेरवस्थितिः । सद्भिः स एव विज्ञेयः समाधिः सविकल्पकः। मृद एवावभानेपि मृण्मयद्विपभानवत् । सन्मात्रवस्तुभानेपि त्रिपुटी भाति सन्मयी । समाधिरत एवायं सविकल्प इतीर्यते । ज्ञात्रादि- भावमुत्सृज्य ज्ञेयमात्रस्थितिर्दुढा | मनसो निर्विकल्पस्स्यात् समाधिर्योग- संज्ञितः। जले निक्षिप्तलवणं जलमात्रतया स्थितं । पृथङ्-नभाति किन्त्वंभ एकमेवावभासते । यथा तथैव सा वृत्तिः ब्रह्ममात्रतया स्थिता । पृथङ्- भाति ब्रह्मवाद्वितीयमवभासते । ज्ञात्रादिकल्पनाभावान्मतोयं निर्वि-कल्पकः । वृत्तेः सद्भावबाधाभ्यां उभयोर्भेद इष्यते " इति सदृष्टान्तं तत्तल्लक्षणं । निर्विकल्पेत्याख्या यस्य निर्विकल्पाख्यः सचासौ समाधिश्च निर्विकल्पाख्यसमाधिः तस्मिन् निश्चलाः तेन वा निश्चलाः तानंतरा विना, आरूढशक्तेः आरूढा प्रवृद्धा शक्तिः नानाभ्रमजनिका यस्य तस्य अहमः अहंकारस्य विनाशः, पण्डितैरपि कृतवेदान्तश्रवणैरपि सहसा कर्तुं न शक्यः । हि यस्मात् वासनाः अनात्मसंस्काराः अनन्तभवाः अनन्ताः असंख्याकाः भवाः जन्मानि यासां ताः, यद्वा अनन्तैर्बहुभिः पदार्थैः भवाः उत्पन्नाः । अतः सकलविधवासनाक्षयार्थं निर्विकल्पकसमाधिरेव शरणम्

॥३४३॥

ADD COMMENT

Login before adding your answer.

Traffic: 22 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.