विद्वान् इव आचरति। किं रूपम्?
2
0
Entering edit mode
QUESTION
10 months ago
bandhu 430

कृष्ण इव आचरति कृष्णायते तथैव पल्लवायते इत्यादयः शब्दाः दृष्टाः

विद्वान् इव आचरति - नामधातुरूपं किं भवेत्?

व्याकरणम् रूपसिद्धिः • 263 views
ADD COMMENT

2 Answers

3
Entering edit mode
ANSWER
10 months ago
Sanskrit ▴ 520

विद्वस्यते, विद्वायते इत्युभयम्। 1 उदाहृतिमिदं कौमुद्याम्। तत्त्वबोधिन्यां बालमनोरमायामपि।

ADD COMMENT
1
Entering edit mode
ANSWER
10 months ago
Yogesh ▴ 10

कृष्ण इवाचरतीत्यत्र कृष्णायते इति रूपन्तु असाधुतां भजेत , यतः सिद्धान्तकौमुद्यामेव प्रकृतप्रयोगस्य सन्दर्भे "कृष्णति" इति प्रयोगः दर्शितः, न तु कृष्णायते इति ।

ADD COMMENT
0
Entering edit mode

अत्र भवतां स्वागतमार्य । तत्र तावत् कर्तुः क्यङ् सलोपश्च इत्यत्र कृष्णायते इत्यपि दृष्टमतः उद्धृतम् । उभयथाऽपि रूपसिद्धिः वेति जिज्ञासा ।

https://ashtadhyayi.com/sutraani/3/1/11?expand=sutra-commentary-kaumudi-region&focus=sutra-commentary-kaumudi-region&highlight=कृष्णायते

ADD REPLY

Login before adding your answer.

Traffic: 9 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.