अनयोः स्नपयति स्नापयति चेति पदयोः कतरत् साधुरिति जिज्ञासा।
अनयोः स्नपयति स्नापयति चेति पदयोः कतरत् साधुरिति जिज्ञासा।
1 Answer
ग्लास्नावनुवमां च इत्यनेन मित्त्वं भवति। अतः स्नपयति स्नापयति इति उभयं साधु। अनुपसर्गादेव इति अवधेयम्।
OCR Text:
बालमनोरमा | १२९ सः' इत्यादि व्याख्यातम् । 'ग्लास्नावनुवमां च' (ग सू १९० ) । अनुपसर्गादेषां मित्त्व वा स्यात् । आद्ययोरप्राप्ते इतरयोः प्राप्ते विभाषा । 'न कम्यमिचमाम्' (ग सू १९१) । अमन्तत्वात्प्राप्तं मित्त्वमेषां न स्यात् । कामयते । आमयति । चामयति । शमो ८१८ दर्शने (ग सू १९२ ) । शाम्यतिर्दर्शने मिन्न स्यात् । निशामयति रूपम् । अन्यत्र तु ' प्रणयिनो निशमय्य वधूकथा: ' कथं तर्हि 'निशामय तदुत्पत्तिं विस्तरागदतो मम' इति । 'शम आलोचने' इति चौरा- दिकस्य । धातूनामनेकार्थत्वाच्छ्रवणे वृत्तिः । शाम्यतिवत् । यमो ८१९ ऽप- रिवेषणे (ग सू १९३) । यच्छतिर्भोजनतोऽन्यत्र मिन्न स्यात् । आयामयति । द्राघयति, व्यापारयति वेत्यर्थः । परिवेषणे तु यमयति ब्राह्मणान् । भोजय-
भान वृत्तिकृदिति ॥ भाष्ये तु नैतद्दृश्यत इति भावः । एतेनेति ॥ व्यवस्थितविभाषा- श्रयणेनेत्यर्थ. । 'ग्लास्नावनुवमाञ्च' इत्यपि गणसूत्रम् । प्रथमार्थे षष्ठी । अनुपसर्गादिति मित इति वेति चानुवर्तते । फलितमाह । अनुपसर्गादिति । आद्ययोरिति ॥ ग्लास्ना इत्य- नयोरघटादित्वादप्राप्ते मित्त्वे इतरयोर्वनुवमो प्राप्ते मित्त्वे विभाषेत्यर्थः । तत्र 'वनु च नोच्यते ' इति घटादपाठाद्वस्त्वमन्तत्वान्मित्त्वप्राप्तिरिति बोध्यम् । 'न कम्यमिचमाम्' इति शमो दर्शने इति च गणसूत्रम् । दर्शन चाक्षुषज्ञानम् । 'शम उपशमे' इति दैवादिक श्यन्विकरण एवात्र गृह्यते । नतु 'शम आलोचने' इति चौरादिक । नान्ये मितोऽहेताविति तस्य मित्त्वनिषेधात् । तदाह । शाम्यतिरिति । निशामयति रूपमिति ॥ पश्यतीत्यर्थ. । उपशमार्थकस्यापि अनेकार्थकत्वात् दर्शने वृत्ति । अन्यत्रेति ॥ दर्शनादन्यत्रेत्यर्थः । निशमय्येति । श्रावयित्वे- त्यर्थः । शमेर्ण्यन्तात् त्वो ल्यपि कृते 'त्यपि लघुपूर्वात्' इति णेरयादेशः । कथमिति ॥ तर्हि दर्शनार्थकस्यैव शमेर्मित्त्वनिषेधे सति शृणु इत्यर्थे मत्त्वा स्वप्रसङ्गान्निशामयेति कथमि- त्याक्षेपः । समाधत्ते । शम आलोचने इति चौरादिकस्येति ॥ निशामयेति रूपमिति शेषः । नान्ये मितोऽहेताविति तस्य मित्त्वनिषेधात् नहूस्व इति भावः । ननु चौरादिकस्य शमेरालोचनार्थकत्वात् कथं श्रवणे वृत्तिरित्यत आह । धातूनामिति । शाम्यतिवदिति ॥ श्यन्विकरणस्य शमेरुपशमार्थकस्य यथा दर्शने वृत्तिस्तद्वदित्यर्थ । 'यमोऽपरिवेषणे' इत्यपि गणसूत्रम् । भोजनपात्रे ओदनापूपादिभोज्यद्रव्याणां स्थापनम्परिवेषणम् । तदाह । भोजन- तोऽन्यत्रेति ॥ भुक्त्यनुकूलपरिवेषणादन्यत्रेत्यर्थः । 'यम उपरमे' इत्यस्य उपसर्गवशात् परिवेषणे ततोऽन्यस्मिन्नप्यर्थे वृत्तिः सम्भवति । तत्र अपरिवेषणे वृत्तौ मित्त्वन्नेत्यर्थः । आयामयतीति ॥ अत्रापरिवेषणे वृत्तेर्नमित्त्वमिति भावः । तदाह । द्राघयतीति ॥ दीर्घी- करोतीत्यर्थः । व्यापारयतीति ॥ प्रवर्तयतीत्यर्थः । यमयति ब्राह्मणानिति ॥ परि- वेषणार्थकत्वान्मित्त्वमिति भावः । तदाह । भोजयतीति ॥ भुञ्जते ब्राह्मणाः तान्परि- वेषणेन प्रवर्तयतीत्यर्थः । ननु पर्यवसित नियमयन्नित्यत्र अपरिवेषणार्थकतया मित्त्वाभावात्कथं
Use of this site constitutes acceptance of our User Agreement and Privacy Policy.