गोपयति vs. गोपायति
1
0
Entering edit mode
QUESTION
4 weeks ago
bandhu 440

गोपयति गोपायति इत्यनयोः साधुरूपं किम्?

व्याकरणम् • 59 views
ADD COMMENT

1 Answer

0
Entering edit mode
ANSWER
4 weeks ago
bandhu 440

गोपयति / गोपायति

गुपूँ (रक्षणे) इति भ्वादिगणस्य धातोः नित्यम् आदौ “आय” इति प्रत्ययः विधीयते, तदनन्तरं तस्य तिङन्तरूपाणि भवन्ति ।

  • गुप् + आय = गोपाय । गोपाय + शप् + ति → गोपायति । रक्षणं करोति इति अर्थः ।

स्वार्थे णिच्

काव्येषु कुत्रचित् “गोपयति” इति अकारघटितं रूपम् अपि प्रयुक्तम् दृश्यते । अस्य सिद्धिः “शब्दापशब्दविवेकः” इति ग्रन्थे इत्थं दीयते — “स्वार्थे गुपेर्णिच् इति कृत्वा गोपयति इति सुवचम्” ।

  • गुप् + (स्वार्थे) णिच् → गोपि । गोपि + शप् + ति → गोपयति । रक्षणं करोति इत्येव अर्थः ।

स्वार्थे णिच् प्रत्ययः कथम् ? “निवृत्तप्रेषणाद् धातोः प्राकृते ऽर्थे णिज् उच्यते” इति प्राकृते अर्थे णिच्-प्रत्ययः ।

अर्थान्तरेषु अननुबन्धकाः चुरादयः इति “६.१.९ सन्यङोः” इत्यत्र सिद्धान्तकौमुद्यां विद्यमानं वचनम् अनुसृत्य “गुपँ गोपने” इति भ्वादिगणस्य धातुः निन्दा-भिन्ने अर्थे स्वार्थे चुरादिगणे स्वीक्रियते, अतश्च तस्मात् णिच्-प्रत्ययः सम्भवति, येन “गोपयति” इति रूपम् सिद्ध्यति ।

https://vishvasa.github.io/sanskrit/vyAkaraNam/pANinIyam/articles/bhAShA-pAkaH/nIlesha-sAraH/dhAtu-prayogaH/gup/

ADD COMMENT

Login before adding your answer.

Traffic: 6 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.