अधोलिखितवाक्यस्य विवरणम् अपेक्षितम् ।
कुटपूर्वस्य लिखधातोरपि ग्रहणाल्लिखनमिति प्रयोगः सिद्ध इत्याहुः । इति १.२.१ तत्त्वबोधिन्याम् ।
अधोलिखितवाक्यस्य विवरणम् अपेक्षितम् ।
कुटपूर्वस्य लिखधातोरपि ग्रहणाल्लिखनमिति प्रयोगः सिद्ध इत्याहुः । इति १.२.१ तत्त्वबोधिन्याम् ।
1 Answer
उक्तं च हैमे -
कुटादेरिति किम्? लेखनीयम्। "केचिल्लिखिमपि कुटादौ पठन्ति।"
तदेवोल्लिखितं क्रमदीश्वरेण स्वीये प्राकृतव्याकरणे [खादिर्हः॥२।११॥ सूत्रसत्कटीकायाम्] -
लिखनं णिहिलं।
प्रयोगश्चायं दृश्यते शुक्रनीतौ -
सजातीनां च लिखनं कुर्याच्च समुदायतः। यथाप्राप्तं तु लिखनमाद्यन्तसमुदायतः॥ 1
प्रयोग ईदृशो दृश्यते शान्तिनाथमहाकाव्ये [मुनिभद्रसूरिविरचिते] 3.106तमे पद्ये।
Use of this site constitutes acceptance of our User Agreement and Privacy Policy.
उत्तमम् । प्रयोगा दृश्यन्त इति हेतोः असाधुप्रयोगः न स्यात् । परन्तु लेखनमिति साधीयान् भासते