नमो विद्वाद्भ्यः!
कमलमिति पद्ममिति च पुष्पविशेषे पदं सुविख्यातं संस्कृतसाहित्ये। पद्ममित्यस्य तु अमरोक्तेः
वा पुंसि पद्मं नलिनम्॥
इति वचनात् पुंस्यपि साधुता सुगम्या, नलिनस्य च। प्रयोगश्चाऽस्य नैषधीये प्रसिद्धः -
पद्मान् हिमे प्रावृषि खञ्जरीटान्...॥१०।११९॥
अपरव्याख्याने तस्यैव श्लोकस्येत्थं विवरणं कृतम् -
पद्मान् - कमलान् इति (शेषराजशर्मकृता चन्द्रकला व्याख्या, चौखम्बातः प्रकाशिता)
कमलान् इति पदं पुंसि साधु वा? अपि च प्राकृत-व्याकरणे उक्तं हेमचन्द्रसूरिणा -
कमला कमलाइं इति तु संस्कृतवत् सिद्धम्। (वाऽक्ष्यर्थवचनाद्याः॥८।१।३३॥ तमस्य सूत्रस्य वृत्तौ।)
अथ कथं पुष्पविशेषवाचिनः कमलपदस्य पुंसि साधुता? (ब्रह्मवाचिनि तु वर्तत एव। किन्तु नाऽत्र सोऽर्थोऽत्रेष्टः।)
वा पुंसि पद्ममिति निर्देशात् कमलस्य ग्रहणं तु नैव कृतम्। तथा च कमलाइं इति पुंवाचकं वा?
नैवम्। "कमला" इति पुंवाचकम् (प्रयुक्तं पदं बहुवचनान्तम्)। प्रकृतं प्राकृतसूत्रं नपुंसकपदानां पुंस्त्वविधानपरम्। यथा अक्षि पदं संस्कृते नपुंसक एव, किन्तु प्राकृते पुंस्यपि भवति। किन्तु कमलमिति पदस्य पुंस्त्वमनेन सूत्रेण अकृत्वा संस्कृतवत् सिद्धमिति विवरणं कृतम्। कमलाइं इति पदं तु नपुंसकबहुवचनद्योतकम्। तच्च संस्कृतात् सिद्धमेव।
अहो तर्हि तन्मते संस्कृतेऽपि पुमान् कमलशब्दः प्राप्यत इति।