कमलस्य पुंसि साधुता
1
1
Entering edit mode
QUESTION
10 months ago
Sanskrit ▴ 520

नमो विद्वाद्भ्यः!

कमलमिति पद्ममिति च पुष्पविशेषे पदं सुविख्यातं संस्कृतसाहित्ये। पद्ममित्यस्य तु अमरोक्तेः

वा पुंसि पद्मं नलिनम्॥

इति वचनात् पुंस्यपि साधुता सुगम्या, नलिनस्य च। प्रयोगश्चाऽस्य नैषधीये प्रसिद्धः -

पद्मान् हिमे प्रावृषि खञ्जरीटान्...॥१०।११९॥

(https://archive.org/details/ovdz_naishadhiy-charitam-of-harsh-with-explanation-by-narayan-1928-nirnay-sagar-press/page/n429/mode/2up?view=theater)

अपरव्याख्याने तस्यैव श्लोकस्येत्थं विवरणं कृतम् -

पद्मान् - कमलान् इति (शेषराजशर्मकृता चन्द्रकला व्याख्या, चौखम्बातः प्रकाशिता)

कमलान् इति पदं पुंसि साधु वा? अपि च प्राकृत-व्याकरणे उक्तं हेमचन्द्रसूरिणा -

कमला कमलाइं इति तु संस्कृतवत् सिद्धम्। (वाऽक्ष्यर्थवचनाद्याः॥८।१।३३॥ तमस्य सूत्रस्य वृत्तौ।)

अथ कथं पुष्पविशेषवाचिनः कमलपदस्य पुंसि साधुता? (ब्रह्मवाचिनि तु वर्तत एव। किन्तु नाऽत्र सोऽर्थोऽत्रेष्टः।)

साधुता लिङ्गम् नैषधीयम् • 259 views
ADD COMMENT
0
Entering edit mode

वा पुंसि पद्ममिति निर्देशात् कमलस्य ग्रहणं तु नैव कृतम्। तथा च कमलाइं इति पुंवाचकं वा?

ADD REPLY
1
Entering edit mode

नैवम्। "कमला" इति पुंवाचकम् (प्रयुक्तं पदं बहुवचनान्तम्)। प्रकृतं प्राकृतसूत्रं नपुंसकपदानां पुंस्त्वविधानपरम्। यथा अक्षि पदं संस्कृते नपुंसक एव, किन्तु प्राकृते पुंस्यपि भवति। किन्तु कमलमिति पदस्य पुंस्त्वमनेन सूत्रेण अकृत्वा संस्कृतवत् सिद्धमिति विवरणं कृतम्। कमलाइं इति पदं तु नपुंसकबहुवचनद्योतकम्। तच्च संस्कृतात् सिद्धमेव।

ADD REPLY
0
Entering edit mode

अहो तर्हि तन्मते संस्कृतेऽपि पुमान् कमलशब्दः प्राप्यत इति।

ADD REPLY

1 Answer

1
Entering edit mode
ANSWER
9 months ago
Sanskrit ▴ 520

Update:

प्राप्तः प्रबन्धचिन्तामणणिरिति ग्रन्थे संवादे एव एतादृश उल्लेखः। पठत 103तमप्रसङ्गम् 1

kamala

ADD COMMENT
0
Entering edit mode

श्लोके कमला विहाय कमलमिति दृश्यते । कमलो इति स्याद्वा? अथवा कमला इत्येव प्राकृते पुंसि गृहीतम्?

तथा च "लिङ्गानुशासनसिद्धं नित्यक्लीबत्वं केनाप्रमाणीयते" इत्युक्त्वा किं परामृष्टम्?

ADD REPLY

Login before adding your answer.

Traffic: 8 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.