Entering edit mode
QUESTION
22 months ago
bandhu
440
दिवाविभानिशा० इति सूत्रात् चित्रकरः इति पदं निष्पद्यते । तर्हि चित्रकारः इति साधु वा? बालमनोरमायां कर्मकरो भृतक इति लिखितम् ।
भृतकः नास्ति चेत् कर्मकारः इति शक्यते । कर्मणि भृतौ
https://ashtadhyayi.com/sutraani/3/2/22
शब्दसाधुत्वं ज्ञातव्यं चेत् कस्मिन्नर्थे इत्यपि ज्ञेयम् । इदं पदम् अस्मिन् अर्थे साधु ।
भावे घञ् विधाय करोति/क्रियते इति कारः । चित्रस्य कारः चित्रकारः इति शक्यते । तथा सति इष्टार्थकथनं न स्यात् ।
कर्मणि उपपदे धातोः अण्विधिरस्तु, ततश्च उपपदसमासे कर्मकार इत्यादिप्रयोगाः सम्भवन्ति एव। कर्मण्यण् ३.२.१ इति सूत्रप्रमाण्यात्। इति मे भाति।
धन्यवादाः
नमो नमः। महोदय तत्र विशेषविहितत्वात् दिवाविभानिशा० इति सूत्रं अणं बाधेत किल।
सत्यं महोदय। अनाध्यानात् एवं भातम्।