न क्त्वा सेट् इत्यत्र सेटः ग्रहणं किमर्थम् ?
1
0
Entering edit mode
QUESTION
9 months ago
bandhu 430

कौमुदीवृत्तौ सेट् क्त्वा किन्न स्यात् । सेट् किम् । कृत्वा । इति लिखितम् ।

कृत्वा इति उदाहरणस्वीकारात् कृ-धातोः अनिट्त्वात् इडागमः नेति ज्ञायते । अतः तात्पर्यतः सेट् धातुः अस्ति चेत् क्त्वा कित् न इति सिध्यति वा?

अस्य विषये न्यासेऽपि दीर्घा चर्चा कृता । तस्य सङ्क्षेपेण अत्र सङ्कलम् उपकाराय ।

व्याकरणम् • 148 views
ADD COMMENT

1 Answer

2
Entering edit mode
ANSWER
9 months ago
bandhu 430

सेट् धातुः सेट् प्रत्ययः इति व्यवहारविषयः। वस्तुतः धातोः प्रत्ययस्य वा सर्वदा सेट्-त्वं अनिट्-त्वम् इति नास्ति। अस्य धातोः प्रसङ्गे अस्मिन् प्रत्यये परे इडागमः भवति इत्येव शास्त्रम्। वलादेरार्धधातुकस्य इडागमः भवतीति उक्तम्। अतः प्रत्ययस्यैव इडागमः न तु धातोः। धातुः तत्र निमित्तं स्यात्।

अतः सम्पूर्णं शास्त्रम् अवलोक्यैव इडागमः भवत्युत नेति निर्णीयते।

तात्पर्यमित्थम् - यदि प्रक्रियायां क्त्वा इडागमं प्राप्नोति (इडवच्छिन्नः क्त्वा प्रत्ययः => सेट् क्त्वा), तर्हि सः क्त्वा कित् न स्यात्।

SC Vasu: The affix क्त्वा when it takes the augment इट् (i.e. when it is सेट्) is not कित् ।

ADD COMMENT

Login before adding your answer.

Traffic: 41 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.