प्रत्येकस्य इति प्रयोगः साधुः उत न?
1
0
Entering edit mode
QUESTION
10 months ago
bandhu 430

कदाचित् प्रत्येकस्य इति श्रूयते एकैकस्य इत्यर्थे । तत् साधु वा?

साधुता व्याकरणम् • 117 views
ADD COMMENT

1 Answer

3
Entering edit mode
ANSWER
10 months ago
bandhu 430

प्रत्येकम्

प्रत्येकम् - एकम् एकं प्रति इति वीप्सार्थे अव्ययीभावः समासः । अव्ययीभावसमासस्य अव्ययत्वात् सर्वासु विभक्तिषु सर्वेषु च वचनेषु समानं रूपं भवति ।

परन्तु अव्ययीभावसमासः यदि अदन्तः तर्हि तत्र व्यवस्था भिद्यते । 'अ' अन्ते यस्य सः अदन्तः इति बहुव्रीहिसमासः । 'प्रत्येक' इति प्रातिपदिकम् अदन्तम् ।

तृतीयासप्तम्योर्बहुलम् । नाव्ययीभावादतोऽम्त्वपञ्चम्याः । इति सूत्रद्वयस्य तत्र प्रसक्तिः ।

निष्कर्षः

  • तृतीयाविभक्तौ - प्रत्येकेन, प्रत्येकम् इति द्विधा ।
  • सप्तमीविभक्तौ - प्रत्येकस्मिन्, प्रत्येकम् इति द्विधा भवति
  • पञ्चमीविभक्तौ - प्रत्येकस्मात् इति एकमेव रूपम् ।

अन्यविभक्तिषु प्रत्येकम् इत्येव ।

स्पष्टप्रतिपत्त्यर्थं षष्ठीद्योतनम् अनिवार्यं चेत् एकैकस्य इति प्रयोगमर्हति ।

सन्दर्भाः

ADD COMMENT

Login before adding your answer.

Traffic: 41 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.