कल्पनं कल्पना इत्यनयोः अर्थभेदः वर्तते किम्?
1
0
Entering edit mode
QUESTION
13 months ago
bandhu 440

कल्पनं कल्पना इत्यनयोः अर्थभेदः वर्तते किम्?

तथैव रचनं रचना इत्यादीनि पदानि ..

व्याकरणम् • 613 views
ADD COMMENT

1 Answer

1
Entering edit mode
ANSWER
12 months ago
bandhu 440

कल्पनमित्यत्र ल्युट् प्रत्ययः, कल्पना इत्यत्र भावे युच्.

युचः विधानार्थं णिच् अपेक्षितः। यदि स्वार्थे णिच् क्रियते तर्हि समानार्थः भवति।

प्रेरणार्थे णिच् उभयत्र क्रियते चेदपि अर्थः समानः

तद्यथा भावनं, भावना..

अपि च युच् प्रत्ययः भावे विधीयते। अतः ल्युट् अपि भावे विधीयते चेदेव अर्थः समानः.

ल्युट् नपुंसकलिङ्गे एव भवति। युच् स्त्रीलिङ्गे एव भवति। भावे घञ् अपि भवति पुंलिङ्गे ..

रूढ्यां उभयोः प्रयोगस्थलानि कदाचित् भिद्यन्ते, न हि सर्वदा.

ADD COMMENT

Login before adding your answer.

Traffic: 1 users visited in the last hour
Content Users
Tags
Badges
Help About
Access RSS

Use of this site constitutes acceptance of our User Agreement and Privacy Policy.